|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.155. अध्यायः 155
Mahabharata - Drona Parva - Chapter Topics
द्रोणयुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-155-0x(4677)(51814)
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो बली।
उक्ता दुर्योधनं मन्दं मम शास्त्रातिगं सुतम्॥ 7-155-1(51815)
प्रविश्य विचरन्तं च रथे शूरमवस्थितम्।
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्॥ 7-155-2(51816)
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महाहवे।
के चोत्तरमरक्षन्त निघ्नतः शास्त्रवान्बहून्॥ 7-155-3(51817)
के चास्य पृष्ठतोऽन्वासन्वीरा वीरस्य योधिनः।
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः॥ 7-155-4(51818)
मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम्।
मन्ये ते समवेपन्त गावो वै शिशिरे यथा॥ 7-155-5(51819)
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः।
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः॥ 7-155-6(51820)
निर्दहन्सर्वसैन्यानि पाञ्चालानां रथर्षभः।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्॥ 7-155-7(51821)
सञ्जय उवाच। 7-155-8x(4678)
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च।
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम्॥ 7-155-8(51822)
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः।
पृथक्चमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम्॥ 7-155-9(51823)
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः।
धृष्टद्युम्नः शतानीको विराटश्च सकेकयः।
मात्स्याः साल्वाः ससेनाश्च द्रोणमेव ययुर्युधि॥ 7-155-10(51824)
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः।
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत॥ 7-155-11(51825)
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः।
ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम्॥ 7-155-12(51826)
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः।
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्॥ 7-155-13(51827)
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः।
सहिताः सन्न्यवर्तन्त द्रोणमेव द्विजर्षभम्॥ 7-155-14(51828)
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ।
बभूव रजनी घोरा भीरूणां भयवर्धिनी॥ 7-155-15(51829)
योधानामशिवा रौद्रा राजन्नन्तकगामिनी।
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा॥ 7-155-16(51830)
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः।
न्यवेदयन्भयं घोरं सज्वालकबलैर्मुखैः॥ 7-155-17(51831)
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्।
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः॥ 7-155-18(51832)
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्।
भेरीशब्देन महता मृदङ्गानां स्वनेन च॥ 7-155-19(51833)
गजानां बृंहितैश्चापि तुरङ्गाणां च हेषितैः।
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत्॥ 7-155-20(51834)
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम्।
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः॥ 7-155-21(51835)
तमसा चावृते लोके न प्राज्ञायत किञ्चन।
सैन्येन रजसा चैव समन्तादुत्थितेन ह॥ 7-155-22(51836)
नरस्याश्वस्य नागस्य समसज्जत शोणितम्।
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः॥ 7-155-23(51837)
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते।
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत्॥ 7-155-24(51838)
मृदङ्गानकनिर्ह्रादैर्झर्झरैः पटहैस्तथा।
फेत्कारैर्हेषितैः शब्दैः सर्वमैवाकुलं बभौ॥ 7-155-25(51839)
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते।
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे॥ 7-155-26(51840)
भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम्।
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽनशत्॥ 7-155-27(51841)
ततः सा भारती सेना मणिहेमविभूषिता।
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ॥ 7-155-28(51842)
गोमायुबलसङ्घुष्टा शक्तिध्वजसमाकुला।
वारणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता॥ 7-155-29(51843)
तत्राभवन्महाशब्दस्तुमुलो रोमहर्षणः।
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिःस्वनः॥ 7-155-30(51844)
सा निशीथे महाराज सेनाऽदृश्यत भारती।
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता॥ 7-155-31(51845)
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः।
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः॥ 7-155-32(51846)
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टसाः।
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः॥ 7-155-33(51847)
दुर्योधनपुरोवातां रथनागवलाहकाम्।
वादित्रघोषस्तनितां चापविद्युद्व्वजैर्वृताम्॥ 7-155-34(51848)
द्रोणपाण्डवपर्जन्यां खङ्गशक्तिगदाशनिम्।
शरधारास्त्रपवनां शस्त्रपातोष्मसङ्कुलाम्॥ 7-155-35(51849)
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लुवाम्।
तां प्राविशन्नतिभयां नदीं युद्धचिकीर्षवः॥ 7-155-36(51850)
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते।
भीरूणां त्रासजनने शूराणां हर्षवर्धने॥ 7-155-37(51851)
रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे।
द्रोणमभ्यद्रुवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः॥ 7-155-38(51852)
ये ये प्रमुखतो राजन्नावर्तन्त महारथाः।
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम्॥ 7-155-39(51853)
तानि नागसहस्राणि रथानामयुतानि च।
पदातिहयसङ्घानां प्रयुतान्यर्बुदानि च।
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे॥ ॥ 7-155-40(51854)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चपञ्चाशदधिकशततमोऽध्यायः॥ 155 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-155-1 शास्त्रातिगं शास्त्रमाज्ञा॥ 5-155-7 धूमकेतुरग्निः ॥ 5-155-14 सन्न्यवर्तन्त सम्मुखं नितरामवर्तन्त॥ 5-155-155 पञ्चपञ्चाशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|